|
|
 |
 |
|
|
५ उद्योगपर्व.jpg)
॥ श्रीः ॥
5.83. अध्यायः 083
Mahabharata - Udyoga Parva - Chapter Topics
युधिष्ठिरेण श्रीकृष्णे पृथांप्रति कुशलप्रश्नपूर्वकस्वभिद्धादननिवेदनसमाश्वासनप्रार्थना ॥ 1 ॥ श्रीकृष्णस्य मध्येमार्गं तामदग्न्यादिमहर्षिसमागमः ॥ 2 ॥ महर्षिभिः श्रीकृष्णे धृतराष्ट्रादिभिः सह तत्संवादशुश्रूषया तत्र स्वागमननिवेदनम् ॥ 3 ॥
Mahabharata - Udyoga Parva - Chapter Text
युधिष्ठिर उवाच। 5-83-0x(3639)(34716)
या सा बाल्यात्प्रभृत्यस्मान्पर्यवर्धयताबला।
उपवासतपःशीला सदा स्वस्त्ययने रता ॥ 5-83-1(34717)
देवतातिथिपूजासु गुरुशुश्रूषणे रता।
वत्सला प्रियपुत्रा च माताऽस्माकं जनार्दन ॥ 5-83-2(34718)
सुयोधनभयाद्या नो त्रायतामित्रकर्शन ।
महतो मृत्युसंबाधुद्दुस्तरान्नौरिवार्णवात् ॥ 5-83-3(34719)
अस्मत्कृते च सततं यया दुःखानि माधव ।
अनुभूतान्यदुःखार्हां तां स्म पृच्छेरनामयम् ॥ 5-83-4(34720)
भृशमाश्वासयेश्चैनां पुत्रशोकपरिप्लुताम् ।
अभिवाद्य स्वजेथास्त्वं पाण्डवान्परिकीर्तयन् ॥ 5-83-5(34721)
ऊढात्प्रभृति दुःखानि श्वशुराणामरिन्दम।
निराकाराऽतदर्हा च पश्यन्ती दुःखमश्रुते ॥ 5-83-6(34722)
अपि जातु स कालः स्यात्कृष्ण दुःखविपर्ययः ।
यदहं मातरं क्लिष्टां सुखं दद्यामरिन्दम ॥ 5-83-7(34723)
प्रव्रजन्तोऽनुधावन्तीं कृपणां पुत्रगृद्धिनीम् ।
रुदतीमपहायैनामगच्छाम वयं वनम् ॥ 5-83-8(34724)
सा नूनं म्रियते दुःखैः सा चेज्जीवति केशव।
तथा पुत्राधिभिर्गाढमार्तामर्चय सत्कृत ॥ 5-83-9(34725)
अभिवाद्याऽथ सा कृष्ण त्वया मद्वचवाद्विभो ।
धृतराष्ट्रश्च कौरव्यो राजानश्च वयोधिकाः ॥ 5-83-10(34726)
भीष्मं द्रोणं कृपं चैव महाराजं च वाह्लिकम्।
द्रौणिं च सोमदत्तं च सर्वांश्च भरतान्पृथक् ॥ 5-83-11(34727)
` यथावयो यथास्थानं प्रपद्यस्व जनार्दन।'
विदुरं च महाप्राज्ञं कुरूणां मन्त्रधारिणम्।
अगाधबुद्धिं मर्मज्ञं स्वजेथा मधुसूदन ॥ 5-83-12(34728)
वैशम्पायन उवाच। 5-83-13x(3640)
इत्युक्त्वा केशवं तत्र राजमध्ये युधिष्ठिरः।
अनुज्ञातो निववृते कृष्णं कृत्वा प्रदक्षिणम् ॥ 5-83-13(34729)
व्रजन्नेव तु बीभत्सुः सखायं पुरुषर्षभम् ।
अब्रवीत्परवीरघ्रं दाशार्हमपराजितम् ॥ 5-83-14(34730)
यदस्माकं विभो वृत्तं पुरा वै मन्त्रनिश्चये ।
अर्धराज्यस्य गोविद विदितं सर्वराजसु ॥ 5-83-15(34731)
तच्चेद्दद्यादखङ्गेन सत्कृत्यानवमत्य च।
प्रियं मे स्यान्महाबाहो मुच्येरन्महतो भयात् ॥ 5-83-16(34732)
अतश्चेदन्यथाकर्ता धार्तराष्ट्रोऽनुपायवित्।
अन्तं नूनं करिष्यामि क्षत्रियाणां जनार्दन ॥ 5-83-17(34733)
वैशम्पायन उवाच। 5-83-18x(3641)
एवमुक्ते पाण्डवेन समहृष्यद्वृकोदरः।
मुहुर्मुहुः क्रोधवशात्प्रावेपत च पाण्डवः ॥ 5-83-18(34734)
वेपमानश्च कौन्तेयः प्राक्रोशन्महतो रजन्।
धनञ्जयवचः श्रुत्वा हर्षोत्सिक्तमना भृशम् ॥ 5-83-19(34735)
तस्य तं निनदं श्रुत्वा संप्रावेपन्त धन्विनः ।
वाहनानि च सर्वामि शकृन्मूत्रे प्रमुस्रुवुः ॥ 5-83-20(34736)
इत्युक्त्वा केशवं तत्र तथा चोह्वा विनिश्चयम्।
अनुज्ञातो निववृते परिष्वज्य जनार्दनम् ॥ 5-83-21(34737)
तेषु राजसु सर्वेषु निवृत्तेषु जनार्दनः।
तूर्णमभ्यगमद्धृष्टः शैब्यसुग्रीववाहनः ॥ 5-83-22(34738)
ते हया वासुदेवस्य दारुकेण प्रचोदिताः ।
पन्थानमाचेमुरिव ग्रसमाना इवाम्बरम् ॥ 5-83-23(34739)
अथापश्यन्महाबाहुर्ऋषीनध्वनि केशवः ।
ब्राह्या श्रिया दीप्यमानान्स्थितानुभयतः पथि ॥ 5-83-24(34740)
सोऽवतीर्य रथात्तूर्णमभिवाद्य जनार्दनः।
यथावृत्तानृषीन्सर्वानभ्यभाषत पूजयन्॥ 5-83-25(34741)
कच्चिल्लोकेषु कुशलं कच्चिद्धर्मः स्वनुष्ठितः ।
ब्राह्मणानां त्रयो वर्णाः कच्चित्तिष्ठन्ति शासने ।
` पितृदेवातिथिभ्यश्च कच्चित्पूता स्वनुष्ठिताः ॥' 5-83-26(34742)
तेभ्यः प्रयुज्य तां पूजां प्रोवाच मधुसूदनः।
भगवन्तः क्व संसिद्धाः कोऽवधिर्भवतामिह ॥ 5-83-27(34743)
किं वा कार्यं भगवतामहं किं करवाणि यः ।
केनार्थेनोपप्तंप्राप्ता भगवन्तो महीतलम् ॥ 5-83-28(34744)
` एवमुक्ताः केशवेन मुनयः शंसितव्रताः ।
नारदप्रमुखाः सर्वे प्रत्यनन्दन्त केशवम् ॥ 5-83-29(34745)
अधश्शिराः सर्पमाली महर्षिः स हि देवलः ।
अर्वावसुः सुजानुश्च मैत्रेयः शुनको बली 5-83-30(34746)
बको दाल्भ्यः स्थूलशिराः कृष्णद्वैपायनस्तथा।
आपोदधौम्यो धौम्यश्च आणिमाण्डव्यकौशिकौ ॥ 5-83-31(34747)
दामोष्णीषस्त्रिषवणः पर्णादो घटजानुकः।
मौञ्जायनो वायुभक्षः पाराशर्योऽथ शालिकः ॥ 5-83-32(34748)
शीलवानशनिर्धाता शून्यपालोऽकृतव्रणः।
श्वेतकेतुः कहोलश्च रामश्चैव महातपाः ॥' 5-83-33(34749)
तमब्रवीज्जामदग्न्य उपेत्य मधुसूदनम्।
परिष्वज्य च गोविन्दं सुरासुरपतेः सखा ॥ 5-83-34(34750)
देवर्षयः पुण्यकृतो ब्राह्मणाश्च बहुश्रुताः ।
राजर्षयश्च दाशार्ह मानयन्ति तपस्विनः ॥ 5-83-35(34751)
दैवासुरस्य द्रुष्टारः पुराणस्य महामते।
समेत पार्थिवं क्षत्रं दिदृक्षन्तश्च सर्वतः।
सभासदश्च राजानस्त्वां च सत्यं जनार्दनम् ॥ 5-83-36(34752)
एतन्महत्प्रेक्षणीयं द्रुष्टुमिच्छाम केशव ॥ 5-83-37(34753)
धर्मार्थसहिता वाचः श्रोतुमिच्छाम माधव।
त्वयोच्यमानाः कुरुषु राजमध्ये परन्तप ॥ 5-83-38(34754)
` सभायां मधुरा वाचः शुश्रूषन्तस्त्वयेरिताः ।
कुरूणां प्रतिवाचश्च श्रोतुमिच्छाम माधव ॥' 5-83-39(34755)
भीष्मद्रोणादयश्चैव विदुरश्च महामतिः ।
त्वं च यादवशार्दूल सभायां वै समेष्यथ ॥ 5-83-40(34756)
तव वाक्यानि दिव्यानि तथा तेषां च माधव।
श्रोतुमिच्छाम गोविन्द सत्यानि च हितानि च।
आपृष्टोऽसि महाबाहो पुनर्द्रक्ष्यामहे वयम् ॥ 5-83-41(34757)
याह्यविघ्नेन वै वीर द्रक्ष्यामस्त्वां सभागतम्।
आसीनमासने दिव्ये बलतेजःसमाहितम् ॥ 5-83-42(34758)
वैशम्पायन उवाच। 5-83-43x(3642)
प्रयान्तं देवकीपुत्रं परवीररुजो दश।
महारथा महाबाहुमन्वयुः शस्त्रपाणयः ॥ 5-83-43(34759)
पदातीनां सहस्रं च सादिनां च परन्तप।
भोज्यं च विपुलं राजन्प्रेष्याश्च शतशोपरे ॥ ॥ 5-83-44(34760)
इति श्रीमन्महाभारते उद्योगपर्वणि भगवद्यानपर्वणि त्र्यशीतितमोऽध्यायः ॥
Mahabharata - Udyoga Parva - Chapter Footnotes
5-83-6 ऊढात् विवाहात्। श्वशुराणां गृहे इति शेषः ॥ 5-83-36 पुराणस्य दैवासुरस्य देवासुरसमुदायस्य ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|